Showing posts with label S.033 - narahari śarma viracita śrī narasimha sarasvatī stōtraṃ. Show all posts
Showing posts with label S.033 - narahari śarma viracita śrī narasimha sarasvatī stōtraṃ. Show all posts

Monday, April 14, 2025

narahari śarma viracita śrī narasimha sarasvatī stōtraṃ

 

 

नरहरि शर्म विरचित श्री नरसिम्ह सरस्वती स्तोत्रं

कोट्यर्कभं कोटिसुचन्द्रशान्तं

विश्वाश्रयं देवगणार्चिताङ्घ्रिम्।

भक्तप्रियं त्वात्रिसुतं वरेण्यं

वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ 1

 

मायातमोऽर्कं विगुणं गुणाढ्यं

श्रीवल्लभं स्वीकृतभिक्षुवेषम्

सद्भक्तसेव्यं वरदं वरिष्ठं

वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥2

 

कामादिषण्मत्तगजाङ्कुशं त्वा-

- मानन्दकन्दं परतत्वरूपम्।

सद्धर्म​गुप्त्यै विधृतावतारं

वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥3

 

सूर्येन्दुगुं सज्जनकामधेनुं

मृषोद्यपञ्चात्मकभूत​मस्मात्।

उदेति यस्मिन्रमतेऽस्तमेति

वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥4

 

रक्ताब्जपत्रायतकान्तनेत्रं

सद्दण्डकुण्डीपरिहापिताघम्।

श्रितस्मितज्योत्स्नमुखेन्दुशोभं

वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥5

 

नित्यं त्रयीमृग्यपदाब्जधूळिं

निनादसद्बिन्दुकळास्वरूपम्।

त्रितापतप्ताश्रितकल्पवृक्षं

वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥6

 

दैन्याधिभीकष्टदवाग्निमीड्यं

योगाष्टकज्ञानसमर्पणोक्तम्।

कृष्णानदीपञ्चसरिद्युतिस्थं

वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥7

 

अनादिमध्यान्तमनन्तशक्ति-

-मतर्क्यभावं परमात्मसञ्ज्ञम्।

व्यतीतवाग्दृक्पथमद्वितीयं

वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥8

 

यो नृसिंहसरस्वत्या अष्टकं पठतीह सः।

दीर्घायुः संसृतिं तीर्त्वाऽभीष्टं लब्ध्वाऽमृतं व्रजेत्॥​9